|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.87. अध्यायः 087
Mahabharata - Sabha Parva - Chapter Topics
दुर्योधनेन विदुरोपालम्भः॥ 1॥ विदुरेण धृतराष्ट्रस्य हितोपदेशः॥ 2॥
Mahabharata - Sabha Parva - Chapter Text
दुर्योधन उवाच॥
परेषामेव यशसा श्लोघसे त्वं
सदा क्षत्तः कुत्सयन्धार्तराष्ट्रान्।
जानीमहे विदुर यत्प्रियस्त्वं
बालानिवास्मानवमन्यसे नित्यमेव॥ 2-87-1(14787)
स विज्ञेयः पुरुषोऽन्यत्रकामो
निन्दाप्रशंसे हि तथा युनक्ति।
जिह्वाऽऽत्मनो हृदयस्थं व्यनक्ति
जानीमहे त्वन्मनसः प्रातिकूल्यम्॥ 2-87-2(14788)
उत्सङ्गे च व्याल इवाहितोऽसि
मार्जरवत्पोषकं चोपहंसि।
भर्तृघ्नं त्वां न हि पापीय आहु-
स्तस्मात्क्षत्तः किं न बिभेषि पापात्॥ 2-87-3(14789)
जित्वा शत्रून्फलमाप्तं महद्वै
माऽस्मान्क्षत्तः परुषामीह वोचः।
द्विषद्भिस्त्वं सम्प्रयोगाभिनन्दी
मुहुर्देषं यासि नः सम्प्रयोगात्॥ 2-87-4(14790)
अमित्रतां याति नरोऽक्षमं ब्रुव-
न्निगूहते गुह्यममित्रसंस्तवे।
तदाश्रितोऽपत्रप किं नु बाधसे
यदिच्छसि त्वं तदिहाभिभाषतसे॥ 2-87-5(14791)
मा नोऽवमंस्था विद्य मानस्तवेदं
शिक्षस्व बुद्धिं स्थविराणां सकाशात्।
यशो रक्षस्व विदुर सम्प्रणीतं
मा व्यापृतः परकार्येशु भूस्त्वम्॥ 2-87-6(14792)
अहं कर्तेति विदूर मा च मंस्था
मा नो नित्यं परुषाणीह वोचः।
न त्वां पृच्छामि विदुर यद्धितं मे
स्वस्ति क्षत्तर्मा तितिक्षून् क्षिण् त्वम्॥ 2-87-7(14793)
एकः शास्ता न द्वितीयोऽस्ति शास्ता
गर्भे शयानं पुरुषं शास्ति शास्ता।
तेनानुशिष्टः प्रवणादिवाम्भो
यथा नियुक्तोऽस्ति तथा भवामि॥ 2-87-8(14794)
भिनत्ति शिरसा शैलमहिं भोजयते च यः।
धीरेव कुरुते तस्य कार्याणामनुशासनम्।
यो बलादनुशास्तीह सोऽमित्रं तेन विन्दति॥ 2-87-9(14795)
मित्रतामनुवृत्तं तु समुपेक्षत्यपण्डितः।
दीप्य यः प्रदीप्ताग्निं प्राच्किरं नाभिधावति।
भस्मापि न स विन्देत शिष्टं क्वचन भारत॥ 2-87-10(14796)
न वासयेत्पारवर्ग्यं द्विषन्तं
विशेषतः क्षत्तरहितं मनुप्यम्।
स यत्रेच्छसि विदुर तत्र गच्छ
सुसान्त्विता ह्यसती स्त्री जहाति॥ 2-87-11(14797)
विदुर उवाच॥ 2-87-12x(1581)
एतावता पुरुषं ये त्यजन्ति
तेषां सख्यमन्तवद्ब्रूहि राजन्।
राज्ञां हि चित्तानि परिप्लुतानि
सान्त्वं दत्वा मुसलैर्घातयन्ति॥ 2-87-12(14798)
अबालत्वं मन्यसे राजपुत्र
बालोऽहमित्येव सुमन्दबुद्धे।
यः सौहृदे पुरुषं स्थापयित्वा
पश्चादेनं दूषयते स बालः॥ 2-87-13(14799)
न श्रेयसे नीयते मन्दबुद्धिः
स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा।
ध्रुवं न रोचेद्भरतर्षभस्य
पतिः कुमार्या इव षष्टिवर्षः॥ 2-87-14(14800)
अतः प्रियं चेदनुकाङ्क्षसे त्वं
सर्वेषु कार्येषु हिताहितेषु
स्त्रियश्च राजञ्जडपङ्गुकांश्च
पृच्छ त्वं वै तादृशांश्चैव सर्वान्॥ 2-87-15(14801)
लभ्यते खलु पापीयान्नरोऽनु प्रियवागिह।
अप्रियस्य हि पथ्यस्य वक्ता श्रोता च दुर्लभः 2-87-16(14802)
यस्तु धर्मपरश्च स्याद्धित्वा भर्तुः प्रियाप्रिये।
अप्रियाण्याह पथ्यानि तेन राजा सहायवान्॥ 2-87-17(14803)
अव्याधइजं कटुजं तीक्ष्णमुष्णं
यशोमुषं परुषं पूतिगन्धिम्।
सतां पेयं यन्न पिबन्त्यसन्तो
मन्युं महाराज पिब प्रशाम्य ॥ 2-87-18(14804)
वैचित्रवीर्यस्य यशो धनं च
वाञ्छाम्यहं सहपुत्रस्य शश्वत्।
यथा तथा तेऽस्तु नमश्चतेऽस्तु
ममापि च स्वस्ति दिशन्तु विप्राः॥ 2-87-19(14805)
आशीविषान्नेत्रविषान्कोपयेन्न च पण्डितः।
एवं तेऽहं वदामीदं प्रयतः कुरुनन्दन॥ ॥ 2-87-20(14806)
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि सप्ताशीतितमोऽध्यायः॥ 87 ॥
Mahabharata - Sabha Parva - Chapter Footnotes
2-87-3 पापीयः पापीयांसम्॥ 2-87-11 पारवर्ग्यं शत्रुपक्षजातम्॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|